वांछित मन्त्र चुनें

अ॒भ्य॑र्च नभाक॒वदि॑न्द्रा॒ग्नी य॒जसा॑ गि॒रा । ययो॒र्विश्व॑मि॒दं जग॑दि॒यं द्यौः पृ॑थि॒वी म॒ह्यु१॒॑पस्थे॑ बिभृ॒तो वसु॒ नभ॑न्तामन्य॒के स॑मे ॥

अंग्रेज़ी लिप्यंतरण

abhy arca nabhākavad indrāgnī yajasā girā | yayor viśvam idaṁ jagad iyaṁ dyauḥ pṛthivī mahy upasthe bibhṛto vasu nabhantām anyake same ||

पद पाठ

अ॒भि । अ॒र्च॒ । न॒भा॒क॒ऽवत् । इ॒न्द्रा॒ग्नी इति॑ । य॒जसा॑ । गि॒रा । ययोः॑ । विश्व॑म् । इ॒दम् । जग॑त् । इ॒यम् । द्यौः । पृ॒थि॒वी । म॒ही । उ॒पऽस्थे॑ । बि॒भृ॒तः । वसु॑ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥ ८.४०.४

ऋग्वेद » मण्डल:8» सूक्त:40» मन्त्र:4 | अष्टक:6» अध्याय:3» वर्ग:24» मन्त्र:4 | मण्डल:8» अनुवाक:5» मन्त्र:4